Narmada Kavacham, Yantra - नर्मदा कवचं , यंत्र

 

Narmade Har... Jindagi Bhar... Sabka Bhala Kar 

नर्मदे हर ... जिंदगी भर ... सबका भला कर 


    " सारे तीर्थ बार बार, नर्मदा परिक्रमा एक बार "

🌺🌺🌺


"न अहम रहेगा, न वहम रहेगा,

मेरे तट पर आ, तू सिर्फ रेवा रेवा कहेगा ..."


नर्मदा यंत्र
Narmada Yantra



श्रीनर्मदाकवचम् 

श्रीगणेशाय नमः ।

श्रीपार्वती उवाच ।

ॐ लोकसाक्षि जगन्नाथ ! संसारार्णवतारणम् ।

नर्मदाकवचं ब्रूहि सर्वसिद्धिकरं सदा ॥ १॥


श्रीशिव उवाच ।

साधु ते प्रभुतायै त्वां त्रिषु लोकेषु दुर्लभम् ।

नर्मदाकवचं देवि ! सर्वरक्षाकरं परम् ॥ २॥


नर्मदाकवचस्यास्य महेशस्तु ऋषिस्मृतः ।

छन्दो विराट् सुविज्ञेयो विनियोगश्चतुर्विधे ॥ ३॥


ॐ अस्य श्रीनर्मदाकवचस्य महेश्वर ऋषिः ।

विराट् छन्दः । नर्मदा देवता । ह्राँ बीजम् ।

नमः शक्तिः । नर्मदायै कीलकम् ।

मोक्षार्थे जपे विनियोगः ॥


अथ करन्यासः -

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं तर्जनीभ्यां नमः ।

ॐ ह्रूं मध्यमाभ्यां नमः ।

ॐ ह्रैं अनामिकाभ्यां नमः ।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः -

ॐ ह्रां हृदयाय नमः ।

ॐ ह्रीं शिरसे स्वाहा ।

ॐ ह्रूं शिखायै वषट् ।

ॐ ह्रैं कवचाय हुम् ।

ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः अस्त्राय फट ।

ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः ॥


अथ ध्यानम् ।

ॐ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।

नमस्ते नर्मद देवि त्राहि मां भवसागरात् ॥


आदौ ब्रह्माण्डखण्डे त्रिभुवनविवरे कल्पदा सा कुमारी

मध्याह्ने शुद्धरेवा वहति सुरनदी वेदकण्ठोपकण्ठैः ।

श्रीकण्ठे कन्यारूपा ललितशिवजटाशङ्करी ब्रह्मशान्तिः

सा देवी वेदगङ्गा ऋषिकुलतरिणी नर्मदा मां पुनातु ॥


इति ध्यात्वाऽष्टोत्तरशतवारं मूलमन्त्रं जपेत् ।

ॐ ह्रां ह्रीं ह्रूँ ह्रैं ह्रौं ह्रः नर्मदायै नमः इति मन्त्रः ।

अथ नर्मदागायत्री -

ॐ रुद्रदेहायै विद्महे मेकलकन्यकायै धीमहि तन्नो रेवा प्रचोदयात् ॥


ॐ नर्मदाय नमः साहम् ।

इति मन्त्रः । ॐ ह्रीं श्रीं नर्मदायै स्वाहा ॥


अथ कवचम् ।

ॐ पूर्वे तु नर्मदा पातु आग्नेयां गिरिकन्यका ।

दक्षिणे चन्द्रतनया नैरृत्यां मेकलात्मजा ॥ १॥


रेवा तु पश्चिमे पातु वायव्ये हरवल्लभा ।

उत्तरे मेरुतनया ईशान्ये चतुरङ्गिणी ॥ २॥


ऊर्ध्वं सोमोद्भवा पातु अधो गिरिवरात्मजा ।

गिरिजा पातु मे शिरसि मस्तके शैलवासिनी ॥ ३॥


ऊर्ध्वगा नासिकां पातु भृकुटी जलवाहिनी ।

कर्णयोः कामदा पातु कपाले चामरेश्वरी ॥ ४॥


नेत्रे मन्दाकिनी रक्षेत् पवित्रा चाधरोष्टके ।

दशनान् केशवी रक्षेत् जिह्वां मे वाग्विलासिनी ॥ ५॥


चिबूके पङ्कजाक्षी च घण्टिका धनवर्धिनी ।

पुत्रदा बाहुमूले च ईश्वरी बाहुयुग्मके ॥ ६॥


अङ्गुलीः कामदा पातु चोदरे जगदम्बिका ।

हृदयं च महालक्ष्मी कटितटे वराश्रमा ॥ ७॥


मोहिनी जङ्घयोः पातु जठरे च उरःस्थले ।

सहजा पादयोः पातु मन्दला पादपृष्ठके ॥ ८॥


धाराधरी धनं रक्षेत् पशून् मे भुवनेश्वरी ।

बुद्धि मे मदना पातु मनस्विनी मनो मम ॥ ९॥


अभर्णे अम्बिका पातु वस्तिं मे जगदीश्चरी ।

वाचां मे कौतकी रक्षेत् कौमारी च कुमारके ॥ १०॥


जले श्रीयन्त्रणे पातु मन्त्रणे मनमोहिनी ।

तन्त्रणे कुरुगर्भां च मोहने मदनावली ॥ ११॥


स्तम्भे वै स्तम्भिनी रक्षेद्विसृष्टा सृष्टिगामिनी ।

श्रेष्ठा चौरे सदा रक्षेत् विद्वेषे वृष्टिधारिणी ॥ १२॥


राजद्वारे महामाया मोहिनी शत्रुसङ्गमे ।

क्षोभणी पातु सङ्ग्रामे उद्भटे भटमर्दिनी ॥ १३॥


मोहिनी मदने पातु क्रीडायां च विलासिनी ।

शयने पातु बिम्बोष्ठी निद्रायां जगवन्दिता ॥ १४॥


पूजायां सततं रक्षेत् बलावद् ब्रह्मचारिणी ।

विद्यायां शारदा पातु वार्तायां च कुलेश्वरी ॥ १५॥


श्रियं मे श्रीधरी पातु दिशायां विदिशा तथा ।

सर्वदा सर्वभावेन रक्षेद्वै परमेश्वरी ॥ १६॥


इतीदं कवचं गुह्यं कस्यचिन्न प्रकाशितम् ।

सम्प्रत्येव मया प्रोक्तं नर्मदाकवचं यदि ॥ १७॥


ये पठन्ति महाप्राज्ञास्त्रिकालं नर्मदातटे ।

ते लभन्ते परं स्थानं यत् सुरैरपि दुर्लभम् ॥ १८॥


गुह्याद् गुह्यतरं देवि रेवायाः कवचं शुभम् ।

धनदं मोक्षदं ज्ञानं सबुद्धिमचलां श्रियम् ॥ १९॥


महापुण्यात्मका लोके भवन्ति कवचात्मके ।

एकादश्यां निराहारो ब्रतस्थो नर्मदातटे ॥ २०॥


सायाह्ने योगसिद्धिः स्यात् मनः सृष्टार्धरात्रके ।

सप्तावृत्तिं पठेद्विदान् ज्ञानोदयं समालभेत् ॥ २१॥


भौमार्के रविवारे तु अर्धरात्रे चतुष्पथे ।

सप्तावृत्तिं पठेद् देवि, स लभेद् बलकामकम् ॥ २२॥


प्रभाते ज्ञानसम्पत्ति मध्याह्ने शत्रुसङ्कटे ।

शतावृत्तिविशेषेण मासमेकं च लभ्यते ॥ २३॥


शत्रुभीते राजभङ्गे अश्वत्थे नर्मदातटे ।

सहस्त्रावृत्तिपाठेन संस्थितिर्वै भविष्यति ॥ २४॥


नान्या देवि नान्या देवि नान्या देवि महीतले ।

न नर्मदासमा पुण्या वसुधायां वरानने ॥ २५॥


यं यं वाञ्छयति कामं यः पठेत् कवचं शुभम् ।

तं तं प्राप्नोति वै सर्वं नर्मदायाः प्रसादतः ॥ २६॥


इति श्रीभवानीतन्त्रे हरगौरीसंवादे श्रीनर्मदाकवचं सम्पूर्णम् ।

***************


I hope you liked this blog. Please share this blog with others. Do write your comments.

आशा करता हूँ आपको यह ब्लॉग पसंद आया होगा . कृपया इस ब्लॉग को दूसरों के साथ साझा करें. आपके कमेंट्स जरूर लिखे .

                                                                                                  Ravi Kumar

Comments

Popular posts from this blog

1- Uttar tat , Narmada Parikrama Marg– Reva Sagar Sangam to Vegni (By Walk)- (1) उत्तर तट , नर्मदा परिक्रमा - रेवा सागर संगम से वेगनी तक

Narmada Parikrama route by walk/ foot, villages on the route ( with distance) - पैदल नर्मदा परिक्रमा पथ के गाँव (दूरी सहित)

My Narmada Parikrama, Tirth darshan - 2024 - 2025 , मेरी नर्मदा पारिक्रमा, तीर्थ दर्शन - 2024 - 2025